स्त्रोत संग्रह
निर्वाणषट्कम्
मनोबुद्ध्यहङ्कार चित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥
न च प्राणसंज्ञो न वै पञ्चवायुः न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥
न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥
न पुण्यं न पापं न सौख्यं न दुःखं न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥
न मृत्युर्न शङ्का न मे जातिभेदः पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥
अहं निर्विकल्पो निराकाररूपो विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥
श्रीकालभैरवाष्टकम्
शिवरहस्यान्तर्गते महादेवाख्ये शिवपार्वतीसंवादे
ईश्वर उवाच।
देवराजसेव्यमानपावनाङ्घ्रिपङ्कजंव्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।
नारदादियोगिवृन्दवन्दितं दिगम्बरंकाशिकापुराधिनाथकालभैरवं भजे॥1॥
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहंनितान्तभक्तवत्सलं समस्तलोकपालकम्।
निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिंकाशिकापुराधिनाथकालभैरवं भजे॥2॥
भानुकोटिभास्वरं भवाब्धितारकं परंनीलकण्ठनीप्सितार्थदायकं त्रिलोचनम्।
कालकालमम्बुजाक्षकन्धराहरं शिवंकाशिकापुराधिनाथकालभैरवं भजे॥3॥
शूलटङ्कपाशदण्डपाणिमादिकारणंश्यामकायमादिदेवमक्षरं निरामयम्।
भीमवक्रिमभ्रुवं विचित्रताण्डवप्रियंकाशिकापुराधिनाथकालभैरवं भजे॥4॥
रत्नपादुकाप्रभाविरामपादयुग्मकंनित्यमद्वितीयमिष्टदैवतं निरञ्जनम्।
मृत्युदर्पनाशनं करालं दंष्ट्रभीषणंकाशिकापुराधिनाथकालभैरवं भजे॥5॥
धर्मसेतुपालनमधर्ममार्गनाशनंकर्मपाशमोचनं सुकर्मदायकं प्रभुम्।
सुवर्णवर्णकेशपाशशोभिताङ्गनिर्मलंकाशिकापुराधिनाथकालभैरवं भजे॥6॥
अट्टहासभिन्नपद्द्मजाण्डकोटिसन्ततिंदृष्टिपातनष्टपापजालमुग्रशासनम्।
अष्टसिद्धिदायकं कपालमालिकाधरंकाशिकापुराधिनाथकालभैरवं भजे॥7॥
भूतसङ्घनायकं विशालकीर्तिदायकंकाशिवासकोकपुण्यपापशोधनप्रभुम्।
नीतिमार्गकोविदं पुरातनं जगत्प्रभुंकाशिकापुराधिनाथकालभैरवं भजे॥8॥
॥ फलश्रुतिः ॥
कालभैरवाष्टकं पठन्ति ये मनोहरंज्ञानमुक्तिसाधनं पवित्रपुण्यवर्धनम्।
शोकमोहदैन्यलोभकोपतापनाशनंते प्रयान्ति कालभैरवादि सेवितं प्रभुं हरम्॥9॥
॥ इति शिवरहस्यान्तर्गते कालभैरवाष्टकं सम्पूर्णम् ॥
नन्दिस्तवः
कण्ठालङ्कारघण्टाघणघणरणिताध्मातरोदः कटाहः कण्ठेकालाधिरोहोचितघनसुभगंभावुकस्निग्धपृष्ठः ।
साक्षाद्धर्मो वपुष्मान् धवलककुदनिर्भूतकैलासकूटः कूटस्थो वः कंकुद्यान्निविडतरतमः स्तोमतृण्यां वितृण्यात् ॥ १ ॥ ॥
इति नन्दिस्तवः सम्पूर्णः ॥
गौरीपति शत नाम स्तोत्रं
नमो रुद्राय नीलाय भीमाय परमात्मने । कपर्दिने सुरेशाय व्योमकेशाय वै नम: ।। १ ।।
वृषभध्वजाय सोमाय सोमनाथाय शम्भवे । दिगम्बराय भर्गाय उमाकान्ताय वै नम: ।। २ ।।
तपोमयाय भव्याय शिवश्रेष्ठाय विष्णवे । व्यालप्रियाय व्यालानां पतये नम: ।। ३ ।।
महीधराय व्याघ्राय पशुनां पतये नम: । पुरान्त्काय सिंहाय शार्दूलाय मखाय च ।। ४ ।।
मीनाय मीननाथाय सिद्धाय परमेष्ठिने । कामान्तकाय बुद्धाय बुद्धिनां पतये नम: ।। ५ ।।
कपोताय विशिष्टाय शिष्टाय सकलात्मने । वेदाय वेद्जीवाय वेदगुह्याय वै नम: ।। ६ ।।
दीर्घाय दीर्घरूपाय दीर्घार्थायाविनाशिने । नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नम: ।। ७ ।।
गजासुर महाकालायान्धकासुरभेदिने । नीललोहितशुक्लाय चण्डमुण्डप्रियाय च ।। ८ ।।
भक्तिप्रियाय देवाय ज्ञात्रे ज्ञानाव्ययाय च । महेशाय नमस्तुभ्यं महादेव हराय च ।। ९ ।।
त्रिनेत्राय त्रिवेदाय वेदांगाय नमो नम: । अर्थाय चार्थरूपाय परमार्थाय वै नम: ।। १० ।।
विश्वरूपाय विश्वाय विश्वनाथाय वै नम: । शंकराय च कालाय कालावयवरूपिणे ।। ११ ।।
अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नम: । श्मशानवासिने भूयो नमस्ते कृत्तिवाससे ।। १२ ।।
शशांकशेखारायेशायोग्रभूमिशयाय च । दुर्गाय दुर्गपाराय दुर्गावयवसाक्षीणे ।। १३ ।।
लिंगरूपाय लिंगाय लिंगानां पतये नम: । नम: प्रलयरूपाय प्रणवार्थाय वै नम: ।। १४ ।।
नमो नम: कारणकारणाय मृत्युंजयायात्मभवस्वरूपिणे ।
श्रीत्रयम्बकायासितकंठशर्व गौरीपते सकलमंगलहेतवे नम: ।। १५ ।।
|| इति श्री गौरीपति शत नाम स्तोत्रं सम्पूर्णम ||
शिव अष्टोत्तर शतनाम स्तोत्रम्
जय शम्भो विभो रुद्र स्वयम्भो जय शङ्कर । जयेश्वर जयेशान जय सर्वज्ञ कामद ॥ १॥
नीलकण्ठ जय श्रीद श्रीकण्ठ जय धूर्जटे । अष्टमूर्तेऽनन्तमूर्ते महामूर्ते जयानघ ॥ २॥
जय पापहरानङ्गनिःसङ्गाभङ्गनाशन । जय त्वं त्रिदशाधार त्रिलोकेश त्रिलोचन ॥ ३॥
जय त्वं त्रिपथाधार त्रिमार्ग त्रिभिरूर्जित । त्रिपुरारे त्रिधामूर्ते जयैकत्रिजटात्मक ॥ ४॥
शशिशेखर शूलेश पशुपाल शिवाप्रिय । शिवात्मक शिव श्रीद सुहृच्छ्रीशतनो जय ॥ ५॥
सर्व सर्वेश भूतेश गिरिश त्वं गिरीश्वर । जयोग्ररूप मीमेश भव भर्ग जय प्रभो ॥ ६॥
जय दक्षाध्वरध्वंसिन्नन्धकध्वंसकारक । रुण्डमालिन् कपालिंस्थं भुजङ्गाजिनभूषण ॥ ७॥
दिगम्बर दिशां नाथ व्योमकश चिताम्पते । जयाधार निराधार भस्माधार धराधर ॥ ८॥
देवदेव महादेव देवतेशादिदैवत । वह्निवीर्य जय स्थाणो जयायोनिजसम्भव ॥ ९॥
भव शर्व महाकाल भस्माङ्ग सर्पभूषण । त्र्यम्बक स्थपते वाचाम्पते भो जगताम्पते ॥ १०॥
शिपिविष्ट विरूपाक्ष जय लिङ्ग वृषध्वज । नीललोहित पिङ्गाक्ष जय खट्वाङ्गमण्डन ॥ ११॥
कृत्तिवास अहिर्बुध्न्य मृडानीश जटाम्बुभृत् । जगद्भ्रातर्जगन्मातर्जगत्तात जगद्गुरो ॥ १२॥
पञ्चवक्त्र महावक्त्र कालवक्त्र गजास्यभृत् । दशबाहो महाबाहो महावीर्य महाबल ॥ १३॥
अघोरघोरवक्त्र त्वं सद्योजात उमापते । सदानन्द महानन्द नन्दमूर्ते जयेश्वर ॥ १४॥
एवमष्टोत्तरशतं नाम्नां देवकृतं तु ये । शम्भोर्भक्त्या स्मरन्तीह शृण्वन्ति च पठन्ति च ॥ १५॥
न तापास्त्रिविधास्तेषां न शोको न रुजादयः । ग्रहगोचरपीडा च तेषां क्वापि न विद्यते ॥ १६॥
श्रीः प्रज्ञाऽऽरोग्यमायुष्यं सौभाग्यं भाग्यमुन्नतिम् । विद्या धर्मे मतिः शम्भोर्भक्तिस्तेषां न संशयः ॥ १७॥
॥ इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे शिवाष्टोत्तरनामशतक स्तोत्रं सम्पूर्णम् ॥
नाग पंचमी एवं शिवरात्रि विशेष
सर्प सूक्त पाठ
ब्रह्मलोकेषु ये सर्पा शेषनाग परोगमा: । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा
इन्द्रलोकेषु ये सर्पा: वासुकि प्रमुखाद्य: । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा
कद्रवेयश्च ये सर्पा: मातृभक्ति परायणा । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
इन्द्रलोकेषु ये सर्पा: तक्षका प्रमुखाद्य । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
सत्यलोकेषु ये सर्पा: वासुकिना च रक्षिता । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
मलये चैव ये सर्पा: कर्कोटक प्रमुखाद्य । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
पृथिव्यां चैव ये सर्पा: ये साकेत वासिता । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
सर्वग्रामेषु ये सर्पा: वसंतिषु संच्छिता । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
ग्रामे वा यदि वारण्ये ये सर्पप्रचरन्ति । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
समुद्रतीरे ये सर्पाये सर्पा जंलवासिन: । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
रसातलेषु ये सर्पा: अनन्तादि महाबला: । नमोस्तुतेभ्य: सर्पेभ्य: सुप्रीतो मम सर्वदा ।।
।। इति श्री सर्प सूक्त पाठ समाप्त ।।
श्री नवनाग स्तोत्र
अनन्तं
वासुकिं शेषं पद्मनाभं च कम्बलं
शन्खपालं
ध्रूतराष्ट्रं च तक्षकं कालियं तथा
एतानि
नव नामानि नागानाम च महात्मनं
सायमकाले
पठेन्नीत्यं प्रातक्काले विशेषतः
तस्य
विषभयं नास्ति सर्वत्र विजयी भवेत
ll इति श्री नवनागस्त्रोत्रं सम्पूर्णं ll
नाग गायत्री मंत्र
ॐ नव कुलाय विध्महे विषदन्ताय धी माहि तन्नो सर्प प्रचोदयात ll
पार्वती वल्लभ अष्टकम्
नमो
भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजम् ।
नमः
कामभस्मं नमः शांतशीलं भजे पार्वतीवल्लभं नीलकंठम् ॥ 1 ॥
सदा
तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् ।
सदा
ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकंठम् ॥ 2
॥
श्मशाने
शयानं महास्थानवासं शरीरं गजानां सदा चर्मवेष्टम् ।
पिशाचादिनाथं
पशूनां प्रतिष्ठं भजे पार्वतीवल्लभं नीलकंठम् ॥ 3 ॥
फणीनागकंठे
भुजंगाद्यनेकं गले रुंडमालं महावीर शूरम् ।
कटिव्याघ्रचर्मं
चिताभस्मलेपं भजे पार्वतीवल्लभं नीलकंठम् ॥ 4 ॥
शिरः
शुद्धगंगा शिवा वामभागं वियद्दीर्घकेशं सदा मां त्रिणेत्रम् ।
फणीनागकर्णं
सदा फालचंद्रं भजे पार्वतीवल्लभं नीलकंठम् ॥ 5 ॥
करे
शूलधारं महाकष्टनाशं सुरेशं परेशं महेशं जनेशम् ।
धनेशामरेशं
ध्वजेशं गिरीशं [धनेशस्यमित्रं] भजे पार्वतीवल्लभं नीलकंठम् ॥ 6
॥
उदासं
सुदासं सुकैलासवासं धरानिर्झरे संस्थितं ह्यादिदेवम् ।
अजं
हेमकल्पद्रुमं कल्पसेव्यं भजे पार्वतीवल्लभं नीलकंठम् ॥ 7 ॥
मुनीनां
वरेण्यं गुणं रूपवर्णं द्विजैः संपठंतं शिवं वेदशास्त्रम् ।
अहो
दीनवत्सं कृपालुं शिवं तं भजे पार्वतीवल्लभं नीलकंठम् ॥ 8 ॥
सदा
भावनाथं सदा सेव्यमानं सदा भक्तिदेवं सदा पूज्यमानम् ।
महातीर्थवासं
सदा सेव्यमेकं भजे पार्वतीवल्लभं नीलकंठम् ॥ 9 ॥
इति श्रीमच्छंकरयोगींद्र विरचितं पार्वतीवल्लभाष्टकं नाम नीलकंठ स्तवः ॥
प्रदोष स्तोत्रम्
जय देव जगन्नाथ जय शङ्कर शाश्वत । जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥
जय सर्वगुणातीत जय सर्ववरप्रद । जय नित्य निराधार जय विश्वम्भराव्यय ॥२॥
जय विश्वैकवन्द्येश जय नागेन्द्रभूषण । जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥३॥
जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय । जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥४॥
जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन । जय दुस्तरसंसारसागरोत्तारण प्रभो ॥५॥
प्रसीद मे महादेव संसारार्तस्य खिद्यतः ।सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥६॥
महादारिद्र्यमग्नस्य महापापहतस्य च । महाशोकनिविष्टस्य महारोगातुरस्य च ॥७॥
ऋणभारपरीतस्य दह्यमानस्य कर्मभिः । ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ॥८॥
दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम् । अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम् ॥९॥
दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः । ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥१०॥
शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः । नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥११॥
दुर्भिक्षमरिसन्तापाः शमं यान्तु महीतले । सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥१२॥
एवमाराधयेद्देवं पूजान्ते गिरिजापतिम् । ब्राह्मणान्भोजयेत् पश्चाद्दक्षिणाभिश्च पूजयेत् ॥१३॥
सर्वपापक्षयकरी सर्वरोगनिवारणी । शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा ॥१४॥
॥इति प्रदोषस्तोत्रं सम्पूर्णम् ॥
बिल्वाष्टकम
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् त्रिजन्मपाप संहारं एक बिल्वं शिवार्पणम् ॥
अखण्ड बिल्व पात्रेण पूजिते नन्दिकेश्र्वरे शुद्ध्यन्ति सर्वपापेभ्यो एक बिल्वं शिवार्पणम् ॥
शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् सोमयज्ञ महापुण्यं एक बिल्वं शिवार्पणम् ॥
दन्तिकोटि सहस्राणि वाजपेय शतानि च कोटि कन्या महादानं एक बिल्वं शिवार्पणम् ॥
लक्ष्म्या स्तनुत उत्पन्नं महादेवस्य च प्रियम् बिल्ववृक्षं प्रयच्छामि एक बिल्वं शिवार्पणम् ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् अघोरपापसंहारं एक बिल्वं शिवार्पणम् ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनम् प्रयागमाधवं दृष्ट्वा एक बिल्वं शिवार्पणम् ॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे अग्रतः शिवरूपाय एक बिल्वं शिवार्पणम् ॥
बिल्वाष्टक मिदं पुण्यं यः पठेच्छिवसन्निधौ । सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥
रुद्र सूक्तम्
ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः॥१॥
या ते रुद्र शिवा तनूरघोराऽपापकाशिनी। तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥२॥
यामिषुं गिरिशन्त हस्ते बिभर्यस्तवे। शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत् ॥३॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिज्जगदयक्ष्म सुमना असत्॥४॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अर्हीश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परा सुव॥५॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः। ये चैन रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषा हेड ईमहे॥६॥
असौ योऽवसर्पति नीलग्रीवो विलोहितः। उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः॥७॥
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे। अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः॥८॥
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्। याश्च ते हस्त इषवः परा ता भगवो वप॥९॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ उत। अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥१०॥
या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः। तयाऽस्मान्विश्वतस्त्वमयमया परि भुज॥११॥
परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः। अथो य इषुधिस्तवारे अस्मन्नि धेहि तम्॥१२॥
अवतत्य धनुष्ट्व सहस्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥१३॥
नमस्त आयुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥१४॥
मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्। मा नो वधी: पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥१५॥
मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित् त्वा हवामहे॥१६॥
द्वादश ज्योतिर्लिङ्ग स्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1
श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥6
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥7
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥8
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥9
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥10
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥11
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम् प्रपद्ये ॥12
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥13
॥ इति द्वादश ज्योतिर्लिङ्गस्तोत्रं संपूर्णम् ॥
भगवान् शिवको नमस्कार
नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च॥
ईशानः सर्वविद्यानामीश्चरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्यणोऽधिपतिर्ब्रह्या शिवो मे अस्तु सदाशिवोम् ॥
तत्पुरुषाय विद्याहे महादेवाय धीमहि। तन्नो रुद्रः प्रयोदयात्॥
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥
वामदेवाय नमो ज्येष्टाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो
बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सवेभूतदमनाय नसो मनोन्मनाय नमः ॥
सद्योजातं प्रपद्यायि सद्योजाताय वै नमो नमः। भवे भवे नातिभवे भवस्व मां भवोद्धवाय नमः॥
नमः सायं नमः प्रातनसो रान्या नमो दिवा। भवाय च शर्वाय चोभाध्यापक्रं नमः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्। निर्ममे तमहं वन्दे विद्यातीर्थं महेश्वरम्॥
त्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्योमुक्षीय मामृतात् ॥
सर्वो वे रुद्रस्तस्मै रुद्राय नमो अस्तु। पुरुषो वे रुद्रः सन्महो नमो नमः।
विश्च भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्। सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु।
महामृत्युञ्जयस्तोत्रम्
ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः अनुष्टुप् छन्दः, श्रीमृत्युञ्जयो देवता, गौरी शक्तिः मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्य-प्राप्त्यर्थं च जपे विनियोगः।
ध्यानम्
चन्द्रर्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥
ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।
नीलकण्ठं कालमूर्ति कालज्ञं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम्। नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥
गङ्गाधरं महादेवं सर्वाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥
अनाथः परमानन्दं कैवल्यपदगामिनम्। नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।
स्वर्गापवर्गदातारं सृष्टि-स्थिति-विनाशकम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥
उत्पत्ति-स्थिति-संहारकर्त्तारमीश्वरं गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ। तस्य मृत्युभयं नास्ति नाऽग्निचौरभयं क्वचित् ॥
शतावर्त प्रकर्तव्यं सङ्कटे कष्टनाशनम् । मृत्युञ्जय महादेव त्राहि मां शरणागतम्। जन्म-मृत्युजरा-रोगैः पीडितं कर्मबन्धनैः ॥
शुचिर्भूत्वा पठेत् स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ तावतस्त्नद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड।
इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥ नमः शिवाय साम्बाय हरये परमात्मने। प्रणतक्लेशनाशाय योगिनां पतये नमः ।॥
शताङ्गायुर्मन्त्रः ॐ ही श्रीं ह्रीं हैं हः हन हन दह दह पच पच गृहाण गृहाण मारय मारय मर्दय मर्दय महामहाभैरव भैरवरूपेण धुनुय धुनुय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वर क्षोभय क्षोभय कटु कटु मोहय हुं फट् स्वाहा। इति मन्त्रमात्रेण समाभीष्टो भवति ॥
इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतं महामृत्युञ्जयस्तोत्रं सम्पूर्णम्
शिव ताण्डव स्तोत्रम्
जटाटवीगलज्जल प्रवाहपावितस्थले गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥1॥
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी- विलोलवीचिवल्लरीविराजमानमूर्धनि।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम॥2॥
धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर- स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि॥3॥
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा- कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि॥4॥
सहस्रलोचनप्रभृत्यशेषलेखशेखर- प्रसूनधूलिधोरणीविधूसराङ्घ्रिपीठभूः।
भुजङ्गराजमालया निबद्धजाटजूटकः श्रियै चिराय जायतां चकोरबन्धुशेखरः॥5॥
ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-निपीतपञ्चसायकं नमन्निलिम्पनायकम्।
सुधामयूखलेखया विराजमान शेखरं महाकपालि सम्पदे शिरो जटालमस्तु नः॥6॥
करालभालपट्टिकाधगद्धगद्धगज्ज्वलद्- धनञ्जयाहुतीकृतप्रचण्डपञ्चसायके।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक प्रकल्पनैकशिल्पिनि त्रिलोचने रतिर्मम॥7॥
नवीनमेघमण्डलीनिरुद्धदुर्धरस्फुरत्- कुहूनिशीथिनीतमःप्रबन्धबद्धकन्धरः।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः कलानिधानबन्धुरः श्रियं जगद्धुरन्धरः॥8॥
प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा- वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम्।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे॥9॥
अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरी- रसप्रवाहमाधुरीविजृम्भणामधुव्रतम्।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं गजान्तकान्धकान्तकं तमन्तकान्तकं भजे॥10॥
जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस- द्विनिर्गमत्क्रमस्फुरत्करालभालहव्यवाट्
धिमिद्धिमिद्धिमिद्ध्वनन्मृदङ्गतुङ्गमङ्गल- ध्वनिक्रमप्रवर्तितप्रचण्डताण्डवः शिवः॥11॥
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजो- र्वरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः समप्रवृत्तिकः कदा सदाशिवं भजाम्यहम्॥12॥
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन् विमुक्तदुर्मतिः सदा शिरःस्थमञ्जलिं वहन्।
विलोललोललोचनो ललामभाललग्नकः शिवेति मन्त्रमुच्चरन् कदा सुखी भवाम्यहम्॥13॥
इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेति सन्ततम्।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम्॥14॥
पूजावसानसमये दशवक्त्रगीतं यः शम्भुपूजनपरं पठति प्रदोषे।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां लक्ष्मीं सदैवसुमुखिं प्रददाति शम्भुः॥15॥
शिव षडक्षर स्तोत्र
ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन:। कामदं मोक्षदं चैव ॐ काराय नमो नमः।।१।।
नमंति ऋषयो देवा नमन्त्यप्सरसां गणा:। नरा नमंति देवेशं नकाराय नमो नमः।।२।।
महादेवं महात्मानं महाध्याय परायणम्। महापापहरं देवं मकाराय नमो नमः।।३।।
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम्। शिवमेकपदं नित्यं शिकाराय नमो नमः।।४।।
वाहनं वृषभो यस्य वासुकि कंठभूषणम्। वामे शक्तिधरं देवं वकाराय नमो नमः।।५।।
यत्र यत्र स्थितो देव: सर्वव्यापी महेश्वर:। यो गुरु: सर्वदेवानां यकाराय नमो नमः।।६।।
षडक्षरमिदं स्तोत्र य: पठेच्छिवसंनिधौ। शिवलोकमवाप्नोति शिवेन सह मोदते।।७।।
शिव पञ्चाक्षर स्तोत्रम्
नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय। नित्याय शुद्धाय दिगम्बरायतस्मै न काराय नमः शिवाय॥1॥
मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय। मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै म काराय नमः शिवाय॥2॥
शिवाय गौरीवदनाब्जवृन्दसूर्याय दक्षाध्वरनाशकाय। श्रीनीलकण्ठाय वृषध्वजायतस्मै शि काराय नमः शिवाय्॥3॥
वसिष्ठकुम्भोद्भवगौतमार्यमुनीन्द्रदेवार्चितशेखराय। चन्द्रार्कवैश्वानरलोचनायतस्मै व काराय नमः शिवाय॥4॥
यक्षस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय। दिव्याय देवाय दिगम्बरायतस्मै य काराय नमः शिवाय॥5॥
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ। शिवलोकमवाप्नोति शिवेन सह मोदते॥6॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं शिवपञ्चाक्षरस्तोत्रं सम्पूर्णम्। ॥
श्रीरुद्राष्टकम्
नमामीशमीशाननिर्वाणरूपं विभुंव्यापकं ब्रह्मवेदस्वरूपम्।
निजं निर्गुणं निर्विकल्पंनिरीहं चिदाकाशमाकाशवासं भजेऽहम्॥1॥
निराकारमोङ्कारमूलं तुरीयंगिराज्ञानगोतीतमीशं गिरीशम्।
करालं महाकालकालं कृपालंगुणागारसंसारपारं नतोऽहम्॥2॥
तुषाराद्रिसङ्काशगौरं गभीरंमनोभूतकोटिप्रभाश्रीशरीरम्।
स्फुरन्मौलिकल्लोलिनी चारुगङ्गालसद्भालबालेन्दुकण्ठे भुजङ्गा॥3॥
चलत्कुण्डलं भ्रूसुनेत्रं विशालंप्रसन्नाननं नीलकण्ठं दयालम्।
मृगाधीशचर्माम्बरं मुण्डमालं प्रियंशङ्करं सर्वनाथं भजामि॥4॥
प्रचण्डं प्रकृष्टं प्रगल्भंपरेशमखण्डमजं भानुकोटिप्रकाशम्।
त्रयःशूलनिर्मूलनं शूलपाणिंभजेऽहं भवानीपतिं भावगम्यम्॥5॥
कलातीतकल्याणकल्पान्तकारी सदासज्जनानन्ददाता पुरारी।
चिदानन्दसन्दोहमोहापहारी प्रसीदप्रसीद प्रभो मन्मथारी॥6॥
न यावद् उमानाथ पादारविन्दंभजन्तीह लोके परे वा नराणाम्।
न तावत्सुखं शान्तिसन्तापनाशंप्रसीद प्रभो सर्वभूताधिवासम्॥7॥
न जानामि योगं जपं नैव पूजांनतोऽहं सदा सर्वदा शम्भु तुभ्यम्।
जराजन्मदुःखौघतातप्यमानं प्रभोपाहि आपन्नमामीश शम्भो॥8॥
रुद्राष्टकमिदं प्रोक्तंविप्रेण हरतोषये। ये पठन्ति नरा भक्त्यातेषां शम्भुः प्रसीदति॥9॥
॥ इति श्रीरामचरितमानसे उत्तरकाण्डे श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं सम्पूर्णम् ॥
द्वादश ज्योतिर्लिङ्गानि
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥१॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् । सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥२॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे । हिमालये तु केदारं घुष्मेशं च शिवालये ॥३॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥४॥
एतेषां दर्शनादेव पातकं नैव तिष्ठति । कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥५॥
शिव महिम्न स्तोत्र
महिम्नः
पारं ते परमविदुषो यद्यसदृशी। स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः।।
अथाऽवाच्यः
सर्वः स्वमतिपरिणामावधि गृणन्। ममाप्येष स्तोत्रे हर निरपवादः परिकरः।। 1
।।
अतीतः
पंथानं तव च महिमा वांमनसयोः। अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।।
स
कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः। पदे त्वर्वाचीने पतति न मनः कस्य न वचः।। 2
।।
मधुस्फीता
वाचः परमममृतं निर्मितवतः। तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम्।।
मम
त्वेतां वाणीं गुणकथनपुण्येन भवतः। पुनामीत्यर्थेऽस्मिन् पुरमथन
बुद्धिर्व्यवसिता।। 3 ।।
तवैश्वर्यं
यत्तज्जगदुदयरक्षाप्रलयकृत्। त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।।
अभव्यानामस्मिन्
वरद रमणीयामरमणीं। विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः।। 4
।।
किमीहः
किंकायः स खलु किमुपायस्त्रिभुवनं। किमाधारो धाता सृजति किमुपादान इति च।।
अतर्क्यैश्वर्ये
त्वय्यनवसर दुःस्थो हतधियः। कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः।। 5
।।
अजन्मानो
लोकाः किमवयववन्तोऽपि जगतां। अधिष्ठातारं किं भवविधिरनादृत्य भवति।।
अनीशो
वा कुर्याद् भुवनजनने कः परिकरो। यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे।। 6
।।
त्रयी
सांख्यं योगः पशुपतिमतं वैष्णवमिति। प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।।
रुचीनां
वैचित्र्यादृजुकुटिल नानापथजुषां। नृणामेको गम्यस्त्वमसि पयसामर्णव इव।। 7
।।
महोक्षः
खट्वांगं परशुरजिनं भस्म फणिनः। कपालं चेतीयत्तव वरद तन्त्रोपकरणम्।।
सुरास्तां
तामृद्धिं दधति तु भवद्भूप्रणिहितां। न हि स्वात्मारामं विष यमृगतृष्णा भ्रमयति।। 8
।।
ध्रुवं
कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं। परो ध्रौव्याऽध्रौव्ये जगति गदति
व्यस्तविषये।।
समस्तेऽप्येतस्मिन्
पुरमथन तैर्विस्मित इव। स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता।। 9
।।
तवैश्वर्यं
यत्नाद् यदुपरि विरिंचिर्हरिरधः। परिच्छेतुं यातावनिलमनलस्कन्धवपुषः।।
ततो
भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्। स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न
फलति।। 10 ।।
अयत्नादापाद्य
त्रिभुवनमवैरव्यतिकरं। दशास्यो यद्बाहूनभृत-रणकण्डू-परवशान्।।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः।
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्।। 11 ।।
अमुष्य
त्वत्सेवा-समधिगतसारं भुजवनं। बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः।।
अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि।
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः।। 12 ।।
यदृद्धिं
सुत्राम्णो वरद परमोच्चैरपि सतीं। अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।।
न
तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः। न कस्याप्युन्नत्यै भवति
शिरसस्त्वय्यवनतिः।। 13 ।।
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा-
विधेयस्याऽऽसीद् यस्त्रिनयन विषं संहृतवतः।।
स
कल्माषः कण्ठे तव न कुरुते न श्रियमहो। विकारोऽपि श्लाघ्यो भुवन-भय-भंग-व्यसनिनः।।
14 ।।
असिद्धार्था
नैव क्वचिदपि सदेवासुरनरे। निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।।
स
पश्यन्नीश त्वामितरसुरसाधारणमभूत्। स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः
परिभवः।। 15 ।।
मही
पादाघाताद् व्रजति सहसा संशयपदं। पदं विष्णोर्भ्राम्यद्
भुज-परिघ-रुग्ण-ग्रह-गणम्।।
मुहुर्द्यौर्दौस्थ्यं
यात्यनिभृत-जटा-ताडित-तटा। जगद्रक्षायै त्वं नटसि ननु वामैव विभुता।। 16
।।
वियद्व्यापी
तारा-गण-गुणित-फेनोद्गम-रुचिः। प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।।
जगद्द्वीपाकारं
जलधिवलयं तेन कृतमिति। अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः।। 17
।।
रथः
क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो। रथांगे चन्द्रार्कौ रथ-चरण-पाणिः शर इति।।
दिधक्षोस्ते
कोऽयं त्रिपुरतृणमाडम्बर विधिः। विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः।।
18 ।।
हरिस्ते
साहस्रं कमल बलिमाधाय पदयोः। यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्।।
गतो
भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः। त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्।। 19
।।
क्रतौ
सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां। क्व कर्म प्रध्वस्तं फलति
पुरुषाराधनमृते।।
अतस्त्वां
सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं। श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु
जनः।। 20 ।।
क्रियादक्षो
दक्षः क्रतुपतिरधीशस्तनुभृतां। ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः।।
क्रतुभ्रंशस्त्वत्तः
क्रतुफल-विधान-व्यसनिनः। ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः।। 21
।।
प्रजानाथं नाथ प्रसभमभिकं स्वां
दुहितरं। गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा।।
धनुष्पाणेर्यातं
दिवमपि सपत्राकृतममु। त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः।। 22
।।
स्वलावण्याशंसा
धृतधनुषमह्नाय तृणवत्। पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।।
यदि
स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्। अवैति त्वामद्धा बत वरद मुग्धा युवतयः।। 23
।।
श्मशानेष्वाक्रीडा
स्मरहर पिशाचाः सहचराः। चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः।।
अमंगल्यं
शीलं तव भवतु नामैवमखिलं। तथापि स्मर्तॄणां वरद परमं मंगलमसि।। 24
।।
मनः
प्रत्यक् चित्ते सविधमविधायात्त-मरुतः। प्रहृष्यद्रोमाणः
प्रमद-सलिलोत्संगति-दृशः।।
यदालोक्याह्लादं
ह्रद इव निमज्यामृतमये। दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान्।। 25
।।
त्वमर्कस्त्वं
सोमस्त्वमसि पवनस्त्वं हुतवहः। त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।।
परिच्छिन्नामेवं
त्वयि परिणता बिभ्रति गिरं। न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि।। 26
।।
त्रयीं
तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्। अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्
तीर्णविकृति।।
तुरीयं
ते धाम ध्वनिभिरवरुन्धानमणुभिः। समस्त-व्यस्तं त्वां शरणद गृणात्योमिति पदम्।। 27
।।
भवः
शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्। तथा भीमेशानाविति यदभिधानाष्टकमिदम्।।
अमुष्मिन्
प्रत्येक प्रविचरति देव श्रुतिरपि। प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि
भवते।। 28 ।।
नमो
नेदिष्ठाय प्रियदव दविष्ठाय च नमः। नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।।
नमो
वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः। नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः।। 29
।।
बहुल-रजसे
विश्वोत्पत्तौ, भवाय नमो नमः। प्रबल-तमसे तत्
संहारे, हराय नमो नमः।।
जन-सुखकृते
सत्त्वोद्रिक्तौ, मृडाय नमो नमः। प्रमहसि
पदे निस्त्रैगुण्ये, शिवाय नमो नमः।। 30
।।
कृश-परिणति-चेतः
क्लेशवश्यं क्व चेदं। क्व च तव गुण-सीमोल्लंघिनी शश्वदृद्धिः।।
इति
चकितममन्दीकृत्य मां भक्तिराधाद्। वरद चरणयोस्ते वाक्य-पुष्पोपहारम्।। 31
।।
असित-गिरि-समं
स्यात् कज्जलं सिन्धु-पात्रे। सुर-तरुवर-शाखा लेखनी पत्रमुर्वी।।
लिखति
यदि गृहीत्वा शारदा सर्वकालं। तदपि तव गुणानामीश पारं न याति।। 32
।।
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः।
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य।।
सकल-गण-वरिष्ठः
पुष्पदन्ताभिधानः। रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार।। 33 ।।
अहरहरनवद्यं
धूर्जटेः स्तोत्रमेतत्। पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः।।
स
भवति शिवलोके रुद्रतुल्यस्तथाऽत्र। प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च।। 34
।।
महेशान्नापरो
देवो महिम्नो नापरा स्तुतिः। अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्।। 35
।।
दीक्षा
दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः। महिम्नस्तव पाठस्य कलां नार्हन्ति
षोडशीम्।। 36 ।।
कुसुमदशन-नामा
सर्व-गन्धर्व-राजः। शशिधरवर-मौलेर्देवदेवस्य दासः।।
स
खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्। स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः।। 37
।।
सुरगुरुमभिपूज्य
स्वर्ग-मोक्षैक-हेतुं। पठति यदि मनुष्यः प्रांजलिर्नान्य-चेताः।।
व्रजति
शिव-समीपं किन्नरैः स्तूयमानः। स्तवनमिदममोघं पुष्पदन्तप्रणीतम्।। 38
।।
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्। अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्।। 39 ।।
इत्येषा वाङ्मयी पूजा श्रीमच्छंकर-पादयोः। अर्पिता तेन देवेशः प्रीयतां में सदाशिवः।। 40 ।।
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर। यादृशोऽसि महादेव तादृशाय नमो नमः।। 41 ।।
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः। सर्वपाप-विनिर्मुक्तः शिव लोके महीयते।। 42 ।।
श्री
पुष्पदन्त-मुख-पंकज-निर्गतेन। स्तोत्रेण किल्बिष-हरेण हर-प्रियेण।।
कण्ठस्थितेन
पठितेन समाहितेन। सुप्रीणितो भवति भूतपतिर्महेशः।। 43 ।।
।। इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं सम्पूर्णम्।।
श्री लिङ्गाष्टकम्
ब्रह्ममुरारिसुरार्चितलिङ्गंनिर्मलभासितशोभितलिङ्गम्। जन्मजदुःखविनाशकलिङ्गंतत् प्रणमामि सदाशिवलिङ्गम्॥1॥
देवमुनिप्रवरार्चितलिङ्गं कामदहम्करुणाकर लिङ्गम्। रावणदर्पविनाशनलिङ्गंतत् प्रणमामि सदाशिव लिङ्गम्॥2॥
सर्वसुगन्धिसुलेपितलिङ्गंबुद्धिविवर्धनकारणलिङ्गम्। सिद्धसुरासुरवन्दितलिङ्गंतत् प्रणमामि सदाशिव लिङ्गम्॥3॥
कनकमहामणिभूषितलिङ्गंफणिपतिवेष्टित शोभित लिङ्गम्। दक्षसुयज्ञविनाशन लिङ्गंतत् प्रणमामि सदाशिव लिङ्गम्॥4॥
कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम्। सञ्चितपापविनाशनलिङ्गंतत् प्रणमामि सदाशिव लिङ्गम्॥5॥
देवगणार्चित सेवितलिङ्गंभावैर्भक्तिभिरेव च लिङ्गम्। दिनकरकोटिप्रभाकरलिङ्गंतत् प्रणमामि सदाशिव लिङ्गम्॥6॥
अष्टदलोपरिवेष्टितलिङ्गंसर्वसमुद्भवकारणलिङ्गम्। अष्टदरिद्रविनाशनलिङ्गंतत् प्रणमामि सदाशिव लिङ्गम्॥7॥
सुरगुरुसुरवरपूजित लिङ्गंसुरवनपुष्प सदार्चित लिङ्गम्। परात्परं परमात्मक लिङ्गंतत् प्रणमामि सदाशिव लिङ्गम्॥8॥
लिङ्गाष्टकमिदं पुण्यं यःपठेत् शिवसन्निधौ। शिवलोकमवाप्नोतिशिवेन सह मोदते॥9॥
॥ इति श्रीशिव लिङ्गाष्टकम् सम्पूर्णम् ॥